Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
याणि । मात्राणां स्पर्शाः शब्दादिभिः संयोगाः । ते शीतो-

ष्णसुखदुःखदाः शीतम् उष्णं सुखं दुःखं च प्रयच्छन्तीति ।

अथवा स्पृश्यन्त इति स्पर्शाः विषयाः शब्दादयः । मालात्राश्

स्पर्शाश् शीतोष्णसुखदुःखदाः । शीतं कदाचित् सुखं कदा-

चित् दुःखम् । तथा उष्णमपि अनियतस्वरूपम् । सुखदुःखे

पुनः नियतरूपे यतो नं व्यभिचरतः । अतः ताभ्यां पृथक्

शीतोष्णयोः ग्रहणम् । यस्मात् ते मात्रास्पर्शादयः आगमा-

पायिनः आगमापायशीलाः तस्मात् अनित्याः । अतः तान्

शीतोष्णादीन् तितिक्षस्व प्रसहस्व । तेषु हर्षेषं विषादं वा मा

कार्षीः इत्यर्थः ॥
 
</p>
<p>
शीतोष्णादीन् सहतः किं खास्यादिति शृणु-
 
</p>
<verse>
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥
 
.
 
<fix> १५ ॥</fix></verse>
<p>
यं हि पुरुषं समे दुःखसुखे यस्य तं समदुःखसुखं सुख-

दुःखप्राप्तौ हर्षविषादरहितं धीरं धीमन्तं न व्यथयन्ति न

चालयन्ति नित्यात्मदर्शनात् एते यथोक्ताः शीतोष्णादयः, सः

नित्यात्मस्वरूपदर्शननिष्ठो द्वन्द्वसहिष्णुः अमृतत्वाय अमृत-

भावाय मोक्षायेत्यर्थः, कल्पते समर्थो भवति ॥
 
</p>
</page>