2026-05-05 03:14:23 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore text="C">द्वितीयोऽध्यायः । २५</ignore>

देहः अस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनः
अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमारभावो
बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयो-
हानिः जीर्णावस्था, इत्येताः तिस्रः अवस्थाः अन्योन्यविल-
क्षणाः । तासां प्रथमावस्थानाशे न नाशः, द्वितीयावस्थोप-
जने न उपजन आत्मनः । किं तर्हि ? अविक्रियस्यैव द्विती-
यतृतीयावस्थाप्राप्तिः आत्मनो दृष्टा । तथा तद्वदेव देहात्
अन्यो देहो देहान्तरम्, तस्य प्राप्तिः देहान्तरप्राप्तिः अविक्रिय-
स्यैव आत्मनः इत्यर्थः । धीरो धीमान्, तत्र एवं सति
न मुह्यति न मोहमापद्यते ॥

यद्यपि आत्मविनाशनिमित्तो मोहो न संभवति नित्य
आत्मा इति विजानतः, तथापि शीतोष्णसुखदुःखप्राप्तिनि-
मित्तो मोहो लौकिको दृश्यते, सुखवियोगनिमित्तो मोहः
दुःखसंयोगनिमित्तश्च शोकः । इत्येतदर्जुनस्य वचनमाशङ्क्य
भगवान् आह ---

<verse text="M">मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥<fix> १४ ॥</fix></verse>

मात्राः आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रि-

</page>