Proofing

This page has been fully proofread once and needs a second look.

<page>
<p>
द्वितीयोऽध्यायः ।
 
</p>
<ignore>
२५
 
</ignore>
<p>
देहः अस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनः

अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमारभावो

बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयो-

हानि:निः जीर्णोणावस्था, इत्येताः तिस्रः अवस्था:थाः अन्योन्यविल-

क्षणाः । तासां प्रथमावस्थानाशे न नाशः, द्वितीयावस्थोप

जने न उपजन आत्मन:नः । किं तर्हि ? अविक्रियस्यैव द्विती-

यतृतीयावस्थाप्राप्तिः आत्मनो दृष्टा । तथा तद्वदेव देहात्

अन्यो देहो देहान्तरम्, तस्य प्राप्तिः देहान्तरप्राप्तिः अविक्रिय-

स्यैव आत्मनः इत्यर्थः । धीरो धीमान्, तत्र एवं सति

न मुह्यति न मोहमापद्यते ॥
 
</p>
<p>
यद्यपि आत्मविनाशनिमित्तो मोहो न संभवति नित्य

आत्मा इति विजानतः, तथापि शीतोष्णसुखदुःखप्राप्तिनि-

मित्तो मोहो लौकिको दृश्यते, सुखवियोगनिमित्तो मोह:
हः
दुःखसंयोगनिमित्तश्च शोकः । इत्येतदर्जुनस्य वचनमाशङ्कय
क्य
भगवानाह -
 
--</p>
<verse>
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत
 
मात्रा:
॥<fix> १४ ॥</fix></verse>
<p merge-next="true">मात्राः
आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रि-
 
</p>
</page>