Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
षया बुद्धिः येषां ते हि पण्डिताः, '<quote>&apos;पाण्डित्यं निर्विद्य'&apos;</quote> इति
 

श्रुतेः । परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि,

अतो मूढोऽसि इत्यभिप्राय:यः
 
-
 
</p>
<p>
कुतस्ते अशोच्याः, यतो नित्याः । कथम् ? –
</p>
<verse>
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।

न चैव न भविष्यामः सर्वे वयमतः परम् ॥
 
<fix> ११ ॥</fix></verse>
<p>
न तु एव जातु कदाचित् अहं नासम्, किं तु आसमेव ।

अतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव

अहमासमित्यभिप्रायः । तथा न त्वं न आसीः, किं तु

आसीरेव । तथा न इमे जनाधिपाः न आसन्, किं तु

आसन्नेव । तथा न च एव न भविष्यामः, किं तु भविष्याम

एव, सर्वे वयम् अतः अस्मात् देहविनाशात् परम् उत्तरकाले

अपि । त्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थः । देहभे-

दानुवृत्त्या बहुवचनम्, नात्मभेदाभिप्रायेण ॥
 
</p>
<p>
तत्र कथमिव नित्य आत्मेति दृष्टान्तमाह —
</p>
<verse>
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥
 
</verse>
</page>