Proofing

This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
२३
 
कर्मसमुचितात्, इति निश्चितोऽर्थः । यथा चायमर्थः, तथा
प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥
 
तत्त्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे
निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवा-
न्वासुदेवः ततः कृपया अर्जुनमुद्दिधारयिषुः आत्मज्ञानाया-
वतारयन्नाह -
 
श्रीभगवानुवाच -
 
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः ॥
 
अशोच्यान् इत्यादि । न शोच्या अशोच्याः भीष्मद्रो-
णादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात्, तान्
अशोच्यान् अन्वशोच: अनुशोचितवानसि ' ते म्रियन्ते
मन्निमित्तम्, अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखा-
दिना' इति । त्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांच
वचनानि च भाषसे । तदेतत् मौढ्यं पाण्डित्यं च विरुद्धम्
आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायः । यस्मात् गता-
सून् गतप्राणान् मृतान्, अगतासून अगतप्राणान् जीवतश्च
न अनुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा आत्मवि-