Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
२१
 
</ignore>
<p>
अथ अर्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः

प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं

देयम् — मया बुद्धिकर्मणोः समुच्चय उक्तः, किमर्थमित्थं त्वं

भ्रान्तोऽसि — इति । न तु पुनः प्रतिवचनमननुरूपं पृष्टा-

दन्यदेव ' <quote>&apos;द्वे निष्ठे मया पुरा प्रोक्ते'&apos;</quote> इति वक्तुं युक्तम् ॥
 
</p>
<p>
नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभाग-

वचनादि सर्वमुपपन्नम् । किंच — क्षत्रियस्य युद्धं स्मार्
तं
कर्म स्वधर्म इति जानत: ' तः <quote>&apos;तत्किं कर्मणि घोरे मां नियो-

जयसि'&apos;</quote> इति उपालम्भोऽनुपपन्नः ॥
 
</p>
<p merge-next="true">
तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा

कर्मणा आत्मज्ञानस्य समुच्चयो न केनचिद्दर्शयितुं शक्यः ।

यस्य तु अज्ञानात् रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन

दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नं परमार्थतत्त्व-

विषयम् ' <quote>&apos;एकमेवेदं सर्वेवं ब्रह्म अकर्तृ च'&apos;</quote> इति, तस्य कर्मणि

कर्मप्रयोजने च निवृत्तेऽपि लोकसंग्रहार्थेथं यत्नपूर्वं यथा

प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते न तत्कर्म येन

बुद्धेः समुच्चयः स्यात्; यथा भगवतो वासुदेवस्य क्षत्रधर्म-
.

चेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभि-

संध्यहंकाराभावस्य तुल्यत्वाद्विदुषः । तत्त्वविन्नाहं करोमीति
 
</p>
</page>