Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>द्वितीयोऽध्यायः । १९</ignore>
<p text="C" merge-next="true">इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम्, तत्सां-
ख्यम् । तद्विषया बुद्धिः आत्मनो जन्मादिषड्विक्रियाभावादक-
र्ता आत्मेति प्रकरणार्थनिरूपणात् या जायते, सा सांख्यबुद्धिः ।
सा येषां ज्ञानिनामुचिता भवति, ते सांख्याः । एतस्या बुद्धेः
जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वा-
द्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठानलक्षणो योगः ।
तद्विषया बुद्धिः योगबुद्धिः । सा येषां कर्मिणामुचिता भवति
ते योगिनः । तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे &apos;<quote>'एषा
तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु&apos;'</quote> इति । तयोश्च
सांख्यबुद्धधाश्रयां ज्ञानयोगेन निष्ठां सांख्यानां विभक्तां
वक्ष्यति &apos;<quote>'पुरा वेदात्मना मया प्रोक्ता&apos;'</quote> इति । तथा च योग-
बुद्ध्याश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति — <quote>&apos;'कर्मयो-
गेन योगिनाम्&apos;'</quote> इति । एवं सांख्यबुद्धिं योगबुद्धिं च आश्रित्य
द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृ-
त्वैकत्वानेकत्वबुद्ध्याश्रययोः युगपदेकपुरुषाश्रयत्वासंभवं प-
श्यता । यथा एतद्विभागवचनम्, तथैव दर्शितं शातपथीये
ब्राह्मणे - <quote>&apos;'एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्र-
जन्ति&apos;'</quote> इति सर्वकर्मसंन्यासं विधाय तच्छेषेण &apos;<quote>'किं प्रजया
करिष्यामो येषां नोऽयमात्मायं लोकः&apos;'</quote> इति । तत्र च</p>
</page>