Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१८
 
श्रीमद्भगवद्गीताभाप्ये
 
</ignore>
<p>
न्मसुखदुःखादिप्राप्तिलक्षणः संसारः अनुपरतो भवति । इत्यतः

संसारबीजभूतौ शोकमोहौ । तयोश्च सर्वकर्मसंन्यासपूर्वका-

दात्मज्ञानात् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोका-

नुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान्वासुदेवः-
'

<quote>&apos;
अशोच्यान्'&apos;</quote> इत्यादि ॥
 
</p>
<p>
अत्र केचिदाहुः — सर्वकर्मसंन्यासपूर्व कादात्मज्ञाननिष्ठा-

मात्रादेव केवलात् कैवल्यं न प्राप्यत एव । किं तर्हि ? अभि-
ग्नि-
होत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिरिति स-

र्वासु गीतासु निश्चितोऽर्थ इति । ज्ञापकं च आहुरस्यार्थस्य-
'

<quote>&apos;
अथ चेत्वमिमं धर्म्यं संग्रामं न करिष्यसि ' ' &apos;</quote> <quote>&apos;कर्मण्येवा-

धिकारस्ते ' ' &apos;</quote> <quote>&apos;कुरु कर्मैव तस्मात्त्वम्'&apos;</quote> इत्यादि । हिंसादि-

युक्तत्वात् वैदिकं कर्म अधर्माय इतीयमप्याशङ्का न कार्या ।

कथम्? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षण-

मत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा न अधर्माय ; तदकरणे

'<quote>&apos;ततः स्वधर्मेमं कीर्तितिं च हित्वा पापमवाप्स्यसि'&apos;</quote> इति ब्रुव-

ता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां च क-

र्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति — इति ॥
 
-
 
</p>
<p merge-next="true">
तदसत् ; ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः ।
'

<quote>&apos;
अशोच्यान्'&apos;</quote> इत्यादिना भगवंता यावत् '&apos;स्वधर्ममपि चावेक्ष्य'
 
&apos;</p>
</page>