Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
१७
 
</ignore>
<verse>
संजय उवाच-
 
--
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः ।

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥
 
</verse>
<verse>
तमुवाच हृषीकेशः प्रहसन्निव भारत ।

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥
 
</verse>
<p merge-next="true">
अत्र '<quote>&apos;दृष्ट्वा तु पाण्डवानीकम्'&apos;</quote> इत्यारभ्य यावत् '<quote>&apos;न योत्स्य

इति गोविन्दमुक्त्वा तूष्णीं बभूव ह '&apos;</quote> इत्येतदन्तः प्राणिनां

शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्या-

ख्येयो ग्रन्थः । तथाहि— अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्व-


जनसंबन्धिबान्धवेषु ' &apos;अहमेतेषाम् ' ' &apos; &apos;ममैते'&apos; इत्येवंप्रत्यय-

निमित्तस्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ
'

&apos;
कथं भीष्ममहं संख्ये'&apos; इत्यादिना । शोकमोहाभ्यां ह्याभिभूत-

विवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धा-

दुपरराम ; परधर्मेमं च भिक्षाजीवनादिकं कर्तुं प्रववृते । तथा च

सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वध-

र्मपरित्यागः प्रतिषि<error>द्धं</error><fix>द्ध</fix>सेवा च स्यात् । स्वधर्मे प्रवृत्तानामपि

तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसंधिपूर्विकैव साह-
हं-
कारा च भवति । तत्रैवं सति धर्माधर्मोपचयात् इष्टानिष्टज-
 
</p>
<ignore>
S. B. 2
 
</ignore>
</page>