Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
प्रथमोऽध्यायः ।
 
११
 
</ignore>
<verse>
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४०॥
</verse>
<verse>
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥ ४१ ॥
 
</verse>
<verse>
संकरो नरकायैव कुलघ्नानां कुलस्य च ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥
 
<fix> ४२ ॥</fix></verse>
<verse>
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥
 
<fix> ४३ ॥</fix></verse>
<verse>
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
 

नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥
 
</verse>
<verse>
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।

यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥
 
</verse>
<ignore>
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६॥ .
 
</ignore>
</page>