Proofing

This page has not been fully proofread.

१०
 
श्रीमद्भगवद्गीताभाष्ये
 
आचार्याः पितरः पुत्रा-
 
स्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः
 
स्यालाः संबन्धिनस्तथा ॥ ३४ ॥
 
एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥
 
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥
 
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रांन्सबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥
 
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥
 
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥