2026-05-05 03:01:41 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>प्रथमोऽध्यायः । ९</ignore>
<verse text="M">सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥</verse>
<verse text="M">गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥<fix> ३० ॥</fix></verse>
<verse text="M">निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥<fix> ३१ ॥</fix></verse>
<verse text="M">न काङ्क्षे विजयं कृष्ण
न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द
किं भोगैर्जीवितेन वा ॥ ३२ ॥</verse>
<verse text="M">येषामर्थे काङ्क्षितं नो
राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे
प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥</verse>
</page>