Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
प्रथमोऽध्यायः ।
 
९</ignore>
<verse>
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
.

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥
 
</verse>
<verse>
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः
 
॥<fix> ३० ॥</fix></verse>
<verse>
निमित्तानि च पश्यामि विपरीतानि केशव ।

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥
 
<fix> ३१ ॥</fix></verse>
<verse>न काङ्क्षे
विजयं कृष्ण

न च राज्यं सुखानि च ।

किं नो राज्येन गोविन्द
 

किं भोगैर्जीवितेन वा ॥ ३२ ॥
 
</verse>
<verse>
येषामर्थे काङ्क्षितं नो
 
'

राज्यं भोगाः सुखानि च ।
 

त इमेऽवस्थिता युद्धे
 

प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
 
</verse>
</page>