Proofing

This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
. वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥
 
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ।
 
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥
 
विजयं कृष्ण
न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द
 
किं भोगैर्जीवितेन वा ॥ ३२ ॥
 
येषामर्थे काङ्क्षितं नो
 
'राज्यं भोगाः सुखानि च ।
 
त इमेऽवस्थिता युद्धे
 
प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥