2026-05-03 16:55:22 by akprasad
This page has been fully proofread once and needs a second look.
<ignore>श्रीमद्भगवद्गीताभाष्ये
<verse>संजय उवाच---
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥
<verse>भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ २५॥
<verse>त
पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातृ-
न्पुत्त्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
<verse>श्वशुरान्सुहृदश्चैव
सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः
सर्वान्बन्धूनवस्थितान् ॥ २७ ॥
<verse>कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच -
-
दृष्ट्वेमान्खजनान्कृष्ण युयुत्सून्समुपस्थितान् ॥
</page>