Proofing

This page has not been fully proofread.

संजय उवाच-
 
श्रीमद्भगवद्गीताभाष्ये
 
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥
 
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥२५॥
 
तत्त्रापश्यत्स्थितान्पार्थः
पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातृ-
न्पुत्त्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
 
श्वशुरान्सुहृदश्चैव
 
सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः
 
सर्वान्बन्धूनवस्थितान् ॥ २७ ॥
 
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
 
अर्जुन उवाच -
 
-
 
दृष्ट्वेमान्खजनान्कृष्ण युयुत्सून्समुपस्थितान् ॥