Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>प्रथमोऽध्यायः ।</ignore>
<verse text="M">सौभद्रश्च महाबाहुः
शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥</verse>
<verse text="M">स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥<fix> १९ ॥</fix></verse>
<verse text="M">अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥ २० ॥</verse>
<verse text="M">हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच---
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥</verse>
<verse text="M">यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्त्रणसमुद्यमे ॥ २२ ॥</verse>
<verse text="M">योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥</verse>
</page>