Proofing

This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
सौभद्रश्च महाबाहुः
 
शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥
 
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥
 
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥ २० ॥
 
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच-
 
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥
 
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्त्रणसमुद्यमे ॥ २२ ॥
 
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥