Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>६ श्रीमद्भगवद्गीताभाष्ये</ignore>
<verse text="M">तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥<fix> १२ ॥</fix></verse>
<verse text="M">ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥<fix> १३ ॥</fix></verse>
<pverse text="M">ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥<fix> १४ ॥</fix></p>
<verse
verse>
<verse text="M"
>पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रंडं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥<fix> १५ ॥</fix></verse>
<verse text="M">अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥</verse>
<verse text="M">काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७॥</verse>
<verse text="M" merge-next="true">द्रुपदो द्रौपदेयाश्च
सर्वशः पृथिवीपते ।</verse>
</page>