Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>श्रीमद्भगवद्गीताभाष्ये</ignore>
<p text="C">इमं द्विप्रकारं धर्मं निःश्रेयसप्रयोजनम्, परमार्थतत्त्वं च
वासुदेवाख्यं परं ब्रह्माभिधेयभूतं विशेषतः अभिव्यञ्जयत्
विशिष्टप्रयोजनसंबन्धाभिधेयवद्गीताशास्त्रम् । यतः तदर्थवि -
ज्ञाने समस्तपुरुषार्थसिद्धिः, अतः तद्विवरणे यत्नः क्रियते
मया ॥</p>
<verse text="M">धृतराष्ट्र उवाच---
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ १ ॥</verse>
<verse text="M">संजय उवाच---
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २ ॥</verse>
<verse text="M">पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥</verse>
<verse text="M">अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥</verse>
</page>