2026-05-03 16:49:35 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>इमं द्विप्रकारं धर्ममं निःश्रेयसप्रयोजनम्, परमार्थतत्त्वं च
वासुदेवाख्यं परं ब्रह्माभिधेयभूतं विशेषतः अभिव्यञ्जयत्
विशिष्टप्रयोजनसंबन्धाभिधेयवद्गीताशास्त्रम् । यतः तदर्थवि -
ज्ञाने समस्तपुरुषार्थसिद्धि:धिः, अतः तद्विवरणे यत्नः क्रियते
मया ॥
</p>
<verse>धृतराष्ट्र उवाच-
--
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ १ ॥
</verse>
<verse>संजय उवाच-
--
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २ ॥
</verse>
<verse>पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
</verse>
<verse>अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
</verse>
</page>
<ignore>श्रीमद्भगवद्गीताभाष्ये
<p>इमं द्विप्रकारं धर्
वासुदेवाख्यं परं ब्रह्माभिधेयभूतं विशेषतः अभिव्यञ्जयत्
विशिष्टप्रयोजनसंबन्धाभिधेयवद्गीताशास्त्रम् । यतः तदर्थवि -
ज्ञाने समस्तपुरुषार्थसिद्