Proofing

This page has not been fully proofread.

प्रथमोऽध्यायः ।
 

 
र्थम्, तदर्थाविष्करणायानेकैर्विवृतपदपदार्थवाक्यार्थन्यायमपि
अत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्य अहं विवे-
कतोऽर्थनिर्धारणार्थं संक्षेपतो विवरणं करिष्यामि ॥
 
तस्य अस्य गीताशास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रे-
यसं सहेतुकस्य संसारस्य अत्यन्तोपरमलक्षणम् । तच्च सर्व-
कर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठारूपात् धर्मात् भवति । तथा
इममेव गीतार्थ धर्ममुद्दिश्य भगवतैवोक्तम्— ' स हि धर्मः
सुपर्याप्तो ब्रह्मणः पदवेदने' इति अनुगीतासु । तत्रैव चो-
क्तम्— 'नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी । यः
• स्यादेकासने लीनस्तूष्णीं किंचिदचिन्तयन् ॥' इति 'ज्ञानं
संन्यासलक्षणम्' इति च । इहापि च अन्ते उक्तमर्जुनाय -
'सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज' इति । अभ्युद-
यार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णानाश्रमांश्चोद्दिश्य विहि-
तः, स देवादिस्थानप्राप्तिहेतुरपि सन्, ईश्वरार्पणबुद्धया अनु-
ष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसंधिवर्जितः । शुद्धस-
त्त्वस्य च ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च
निःश्रेयसहेतुत्वमपि प्रतिपद्यते । तथा चेममर्थमभिसंधाय
वक्ष्यति — 'ब्रह्मण्याधाय कर्माणि' 'योगिनः कर्म कुर्वन्ति
सङ्गं त्यक्त्वात्मशुद्धये' इति ॥