Proofing

This page has not been fully proofread.

श्रीमद्भगवद्गीताभाष्ये
 
जगतः स्थितिकारणम् । प्राणिनां साक्षादभ्युदयनिःश्रेयस-
हेतुर्यः स धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोर्थिभिः
अनुष्ठीयमानो दीर्घेण कालेन । अनुष्ठातॄणां कामोद्भवात्
हीयमानविवेकविज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे,
- प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स
आदिकर्ता नारायणाख्यो विष्णुः भौमस्य ब्रह्मणो ब्राह्मणत्वस्य
रक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णः किल संबभूव ।
ब्राह्मणत्वस्य हि रक्षणे रक्षितः स्याद्वैदिको धर्मः, तदधीनत्वा-
द्वर्णाश्रमभेदानाम् ॥
 
स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा संपन्नः
त्रिगुणात्मिकां स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो
भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन्, स्वमा-
यया देहवानिव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते ।
स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्वयम् अर्जु-
नाय शोकमोहमहोदधौ निमग्नाय उपदिदेश, गुणाधिकैर्हि
गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति । तं धर्म
भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः
सप्तभिः श्लोकशतैरुपनिबबन्ध ॥
 
तदिदं गीताशास्त्रं समस्तवेदार्थसारसंग्रहभूतं दुर्विज्ञेया-
 
'