Proofing

This page has been fully proofread once and needs a second look.

<page>
<subtitle>ॐ
॥ नमो भगवते वासुदेवाय ॥</subtitle>
<title>॥ श्रीमद्भगवद्गीता ॥</title>
<subtitle text="C">श्रीमच्छंकरभगवत्पादविरचितेन
भाष्येण सहिता ।</subtitle>
<verse text="C">नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम् ।
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥</verse>
<p text="C" merge-next="true">स भगवान् सृष्ट्वेदं जगत्, तस्य च
स्थितिं चिकीर्षुः, मरीच्यादीनग्रे सृष्ट्वा
प्रजापतीन् , प्रवृत्तिलक्षणं धर्मं ग्राह-
यामास वेदोक्तम् । ततोऽन्यांश्च सन-
कसनन्दनादीनुत्पाद्य, निवृत्तिलक्षणं
धर्मं ज्ञानवैराग्यलक्षणं ग्राहयामास ।
द्विविधो हि वेदोक्तो धर्मः, प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च,</p>
</page>