Proofing

This page has not been fully proofread.

ईश्वर मठ छ
 
श्री १०८ वि
 
॥ नमो भगवते वासुदेवाय ॥
 
॥ श्रीमद्भगवद्गीता
 
श्रीमच्छंकरभगवत्पादविरचितेन
भाष्येण सहिता ।
 
नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम् ।
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥
 
भगवान्
 

 
सृष्ट्वेदं जगत्, तस्य च
 
स्थितिं चिकीर्षुः, मरीच्यादीन सृष्ट्वा
 
प्रजापतीन् प्रवृत्तिलक्षणं धर्म ग्राह-
 
यामास वेदोक्तम् । ततोऽन्यांश्च सन-
 
कसनन्दनादीनुत्पाद्य, निवृत्तिलक्षणं
 
धर्म ज्ञानवैराग्यलक्षणं प्राहयामास ।
 
द्विविधो हि वेदोक्तो धर्मः, प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च,