Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
नवमोऽध्यायः ।
 
२७५
 
</ignore>
<p>
तथा राजानश्च ते ऋषयश्च इति राजर्षयः । यतः एवम्,

त:तः अनित्यं क्षणभङ्गुरम् असुखं च सुखवर्जितम् इमं लोकं

मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा

भजस्व सेवस्व माम् ॥
 
</p>
<p>
कथम् —
 
</p>
<verse>
मन्मना भव मद्भक्तो
 

मद्याजी मां नमस्कुरु ।

मामेवैष्यसि युक्त्वैव-
 

मात्मानं मत्परायणः ॥ ३४ ॥
 
</verse>
<trailer>
इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म-
 

विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
 

राजविद्याराजगुह्ययोगो नाम

नवमोऽध्यायः ॥
 
</trailer>
<p merge-next="true">
मयि वासुदेवे मन:नः यस्य तव स त्वं मन्मनाः भव ।

तथा मद्भक्तः भव मद्याजी मद्यजनशीलः भव । माम् एव

च नमस्कुरु । माम् एव ईश्वरम् एष्यसि आगमिष्यसि
 
</p>
</page>