Proofing

This page has not been fully proofread.

२७४
 
श्रीमद्भगवद्गीताभाष्ये
 
मार्थम्, कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, न
मे मम भक्त: मयि समर्पितान्तरात्मा मद्भक्तः न प्रणश्यति
 
इति ॥
 
किंच--
 
मां हि पार्थ व्यपाश्रित्य
 
येsपि स्युः पापयोनयः ।
 
स्त्रियो वैश्यास्तथा शूद्रा-
 
स्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥
 
मां हि यस्मात् पार्थ व्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा
येsपि स्युः भवेयुः पापयोनयः पापा योनिः येषां ते पाप-
योनयः पापजन्मानः । के ते इति, आह— स्त्रियः वैश्याः
तथा शूद्राः तेऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिम् ॥
 
किं पुनर्ब्राह्मणाः पुण्या
 
भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोक-
 
मिमं प्राप्य भजस्व माम् ॥ ३३ ॥
 
किं पुनः ब्राह्मणाः पुण्याः पुण्ययोनयः भक्ताः राजर्षयः