Proofing

This page has not been fully proofread.

नवमोऽध्यायः ।
 
शृणु मद्भक्तेर्माहात्म्यम्--
अपि चेत्सुदुराचारो
 
भजते मामनन्यभाक् ।
 
साधुरेव स मन्तव्यः
 
सम्यग्व्यवसितो हि सः ॥
 
२७३
 
अपि चेत् यद्यपि सुदुराचारः सुष्ठु दुराचारः अतीव कु-
त्सिताचारोऽपि भजते माम् अनन्यभाक् अनन्यभक्ति: सन्,
साधुरेव सम्यग्वृत्त एव सः मन्तव्यः ज्ञातव्य: ; सम्यक्
यथावत् व्यवसितो हि सः, यस्मात् साधुनिश्चयः सः ॥
 
उत्सृज्य च बाह्यां दुराचारताम् अन्तः सम्यग्व्यवसायसा-
मर्थ्यात्—
 
क्षिप्रं भवति धर्मात्मा
 
शश्वच्छान्तिं निगच्छति ।
 
कौन्तेय प्रतिजानीहि
 
न मे भक्तः प्रणश्यति ॥ ३१ ॥
 
क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्तः एव । शश्वत्
 
नित्यं शान्ति च उपशमं निगच्छति प्राप्नोति । शृणुः पर-
 
S. B. 18*