Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>२६९
नवमोऽध्यायः ।
 
२६९
 
</ignore>
<p>
देवताभक्ताः सन्तः यजन्ते पूजयन्ति श्रद्धया आस्तिक्यबुद्ध्या

अन्विता: अनुगताः, तेऽपि मामेव कौन्तेय यजन्ति अवि-

धिपूर्वकम् अविधिः अज्ञानं तत्पूर्वकं यजन्ते इत्यर्थः ॥
 
</p>
<p>
कस्मात् ते अविधिपूर्वकं यजन्ते इत्युच्यते ; यस्मात् -
</p>
<verse>
अहं हि सर्वयज्ञानां
 

भोक्ता च प्रभुरेव च ।
 

न तु मामभिजानन्ति
 

तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
 
</verse>
<p>
अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां

यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुः एव च । मत्स्वामिको

हि यज्ञः,
'अधियज्ञोऽहमेवात्र' इति हि उक्तम् । तथा न

तु माम् अभिजानन्ति तत्त्वेन यथावत् । अतश्च अविधि-

पूर्वकम् इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ते ते ॥
 
हि यज्ञः,
 
</p>
<p>
येऽपि अन्यदेवताभक्तिमत्त्वेन अविधिपूर्वकं यजन्ते, तेषा-

मपि यागफलं अवश्यंभावि । कथम् ?-
 
---</p>
<verse>
यान्ति देवव्रता देवा-

न्पितॄन्यान्ति पितृव्रताः ।
 
</verse>
</page>