2026-05-04 05:02:17 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२६८
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं
योग:गः अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तदुभयं वहामि प्राप-
यामि अहम् ; 'ज्ञानी त्वात्मैव मे मतम् ' ' स च मम प्रियः '
यस्मात्, तस्मात् ते मम आत्मभूताः प्रियाश्च इति ॥
</p>
<p>ननु अन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान् ।
सत्यं वहत्येव ; किंतु अयं विशेष:षः --- अन्ये ये भक्ताः ते
आत्मार्थं स्वयमपि योगक्षेमम् ईहन्ते ; अनन्यदर्शिनस्तु न
आत्मार्थं योगक्षेमम् ईहन्ते ; न हि ते जीविते मरणे वा
आत्मनः गृद्धिं कुर्वन्ति ; केवलमेव भगवच्छरणाः ते ; अतः
भगवानेव तेषां योगक्षेमं वहतीति ॥
</p>
<p>ननु अन्या अपि देवताः त्वमेव चेत्, तद्भक्ताश्च त्वामेव
यजन्ते । सत्यमेवम्——
</p>
<verse>येऽप्यन्यदेवताभक्ता
यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय
यजन्त्यविधिपूर्वकम् ॥ २३ ॥
</verse>
<p merge-next="true">येऽपि अन्यदेवताभक्ताः अन्यासु देवतासु भक्ताः अन्य-
</p>
</page>
<ignore>२६८
<p>परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं
यो
यामि अहम् ; 'ज्ञानी त्वात्मैव मे मतम्
यस्मात्, तस्मात् ते मम आत्मभूताः प्रियाश्च इति ॥
<p>ननु अन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान् ।
सत्यं वहत्येव ; किंतु अयं विशे
आत्मार्थं स्वयमपि योगक्षेमम् ईहन्ते ; अनन्यदर्शिनस्तु न
आत्मार्थं योगक्षेमम् ईहन्ते ; न हि ते जीविते मरणे वा
आत्मनः गृद्धिं कुर्वन्ति ; केवलमेव भगवच्छरणाः ते ; अतः
भगवानेव तेषां योगक्षेमं वहतीति ॥
<p>ननु अन्या अपि देवताः त्वमेव चेत्, तद्भक्ताश्च त्वामेव
यजन्ते । सत्यमेवम्—
<verse>येऽप्यन्यदेवताभक्ता
यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय
यजन्त्यविधिपूर्वकम् ॥ २३ ॥
<p merge-next="true">येऽपि अन्यदेवताभक्ताः अन्यासु देवतासु भक्ताः अन्य-
</page>