2026-05-04 05:02:48 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२६७ नवमोऽध्यायः ।
२६७
</ignore>
<verse>ते तं भुक्त्वाखस्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥ २१ ॥
</verse>
<p>ते तं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्ण क्षीणे पुण्ये
मर्त्यलोकं विशन्ति आविशन्ति । एवं यथोक्तेन प्रकारेण त्रयी-
धर्म केवलं वैदिकं कर्म अनुप्रपन्नाः गतागतं गतं च आगतं
च गतागतं गमनागमनं कामकामाः कामान् कामयन्ते इति
कामकामा: लभन्ते गतागतमेव, न तु स्वातन्त्र्यं क्वचित्
लभन्ते इत्यर्थः ॥
</p>
<p>ये पुनः निष्कामाः सम्यग्दर्शिनः–
--</p>
<verse>अनन्याश्चिन्तयन्तो मां
ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ॥ २२ ॥
</verse>
<p merge-next="true">अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः
सन्तः चिन्तयन्तः मां ये जनाः संन्यासिनः पर्युपासते, तेषां
</p>
</page>
<ignore>२६७ नवमोऽध्यायः ।
२६७
<verse>ते तं भुक्त्वा