Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२६६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
जामि प्रावृषि । अमृतं चैव देवानाम्, मृत्युश्च मर्त्यानाम् । सत्

यस्य यत् संबन्धितया विद्यमानं तत्, तद्विपरीतम् असच्च

एव अहम् अर्जुन । न पुनः अत्यन्तमेव असत् भगवान्,

स्वयं कार्यकारणे वा सदसती ॥
 
</p>
<p>
ये पूर्वोक्तैः निवृत्तिप्रकारैः एकत्वपृथक्त्वादिविज्ञानैः यज्ञैः

मां पूजयन्त: उपासते ज्ञानविदः, ते यथाविज्ञानं मामेव

प्राप्नुवन्ति । ये पुन:नः अज्ञाः कामकामा:माः-
 

 
-
 
-</p>
<verse>
त्रैविद्या मां सोमपाः पूतपापा
 
ते
 

यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
 

ते
पुण्यमासाद्य सुरेन्द्रलोक-
 

मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २०॥
 
</verse>
<p>
त्रैविद्याः ऋग्यजुःसामविदः मां वस्वादिदेवरूपिणं सोमपाः

सोमं पिबन्तीति सोमपाः, तेनैव सोमपानेन पूतपापाः शुद्ध-

किल्विषाः, यज्ञैः अग्निष्टोमादिभिः इष्ट्वा पूजयित्वा स्वर्गतिं

स्वर्गगमनं स्वरेव गति: स्वर्गति:तिः स्वर्गतिः ताम्, प्रार्थयन्ते । ते च पुण्यं

पुण्यफलम् आसाद्य संप्राप्य सुरेन्द्रलोकं शतक्रतोः स्थानम् अ-

श्नन्ति भुञ्जते दिव्यान् दिवि भवान् अप्राकृतान् देवभोगान्

देवानां भोगान् ॥
 
</p>
</page>