2026-05-03 04:20:55 by ambuda-bot
This page has not been fully proofread.
नवमोऽध्यायः । :
२६५
किंच—
गतिर्भर्ता
प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥
गति: कर्मफलम्, भर्ता पोष्टा, प्रभुः स्वामी, साक्षी
प्राणिनां कृताकृतस्य, निवास: यस्मिन् प्राणिनो निवसन्ति,
शरणम् आर्तानाम्, प्रपन्नानामार्तिहरः । सुहृत् प्रत्युपका-
रानपेक्षः सन् उपकारी, प्रभवः उत्पत्तिः जगतः, प्रलयः
प्रलीयते अस्मिन् इति, तथा स्थानं तिष्ठति अस्मिन् इति,
निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनाम्, बीजं प्ररोहका-
रणं प्ररोहधर्मिणाम्, अव्ययं यावत्संसारभावित्वात् अव्ययम्,
न हि अबीजं किंचित् प्ररोहति ; नित्यं च प्ररोहदर्शनात्
बीजसंततिः न व्येति इति गम्यते ॥
किंच—
तपाम्यहमद्दं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥
तपामि अहम् आदित्यो भूत्वा कैश्चित् रश्मिभिः
उल्बणैः । अहं वर्ष कैश्चित् रश्मिभिः उत्सृजामि । उत्सृज्य
पुनः निगृह्णामि कैश्चित् रश्मिभिः अष्टभिः मासैः पुनः उत्सृ-