2026-05-03 04:20:54 by ambuda-bot
This page has not been fully proofread.
२६२
श्रीमद्भगवद्गीताभाष्ये
येषां ते मोघज्ञानाः, ज्ञानमपि तेषां निष्फलमेव स्यात् ।
विचेतसः विगतविवेकाश्च ते भवन्ति इत्यभिप्रायः ।
किंच— ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम्
आसुरीम् असुराणां च प्रकृतिं मोहिनीं मोहकरी देहात्मवा-
दिनीं श्रिताः आश्रिताः, छिन्द्धि, भिन्द्धि, पिब, खाद,
परस्वमपहर, इत्येवं वदनशीलाः क्रूरकर्माणो भवन्ति इत्यर्थः,
'असुर्या नाम ते लोका:' इति श्रुतेः ॥
ये पुनः
श्रद्दधानाः
प्रवृत्ता:-
भगवद्भक्तिलक्षणे मोक्षमार्गे
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥
महात्मानस्तु अक्षुद्रचित्ताः माम् ईश्वरं पार्थ दैवीं देवानां
प्रकृतिं शमदमदयाश्रद्धादिलक्षणाम् आश्रिताः सन्तः भजन्ति
सेवन्ते अनन्यमनसः अनन्यचित्ताः ज्ञात्वा भूतादिं भूतानां
वियदादीनां प्राणिनां च आदि कारणम् अव्ययम् ॥
कथम् ?--
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥