2026-05-03 04:20:54 by ambuda-bot
This page has not been fully proofread.
नवमोऽध्यायः ।
२६१
एवं मां नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वजन्तूनाम्
आत्मानमपि सन्तम्-
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
अवजानन्ति अवज्ञां परिभवं कुर्वन्ति मां मूढाः अविवे-
किनः मानुषीं मनुष्यसंबन्धिनीं तनुं देहम् आश्रितम्, मनु-
ध्यदेहेन व्यवहरन्तमित्येतत् परं प्रकृष्टं भावं परमात्मत-
त्वम् आकाशकल्पम् आकाशादपि अन्तरतमम् अजानन्तो
मम भूतमहेश्वरं सर्वभूतानां महान्तम् ईश्वरं स्वात्मानम् ।
ततश्च तस्य मम अवज्ञानभावनेन आहताः ते वराकाः ॥
कथम् ?
-
"
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥
मोघाशाः वृथा आशाः आशिषः येषां ते मोघाशाः,
तथा मोघकर्माणः यानि च अग्निहोत्रादीनि तैः अनुष्ठीय-
मानानि कर्माणि तानि च तेषां भगवत्परिभवात्, स्वात्म-
भूतस्य अवज्ञानात्, मोघान्येव निष्फलानि कर्माणि भव-
न्तीति मोघकर्माणः । तथा मोघज्ञानाः मोघं निष्फलं ज्ञानं