Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२६०
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना

अध्यक्षेण मया, मम माया त्रिगुणात्मिका अविद्यालक्षणा

प्रकृतिः सूयते उत्पादयति सचराचरं जगत् । तथा च मन्त्र-

वर्णः --- ' एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूता-

न्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो

निर्गुणश्च' इति । हेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय

जगत् सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु ।

दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्ति:
 
"
 
-
 
तिः --- अहम्
 

इदं भोक्ष्ये, पश्यामि इदम् शृणोमि इदम् सुखमनुभवामि,

दुःखमनुभवामि, तदर्थमिदं करिष्ये, इदं ज्ञास्यामि,

इत्याद्या अवगतिनिष्ठा अवगत्यवसानैव । 'यो अस्याध्यक्षः

परमे व्योमन्' इत्यादयश्च मन्त्राः एतमर्थं दर्शयन्ति । ततश्च

एकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्व-

भोगानभिसंबन्धिनः अन्यस्य चेतनान्तरस्य अभावे भोक्तुः

अन्यस्य अभावात् । किंनिमित्ता इयं सृष्टिः इत्यत्र प्रश्नप्र-
,

तिवचने अनुपपन्ने, ' को अद्धा वेद क इह प्रवोचत् । कुत

आजाता कुत इयं विसृष्टि:टिः' इत्यादिमन्त्रवर्णेभ्यः । दर्शितं

च भगवता --- ' अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः '

इति ॥
 
</p>
</page>