Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
नवमोऽध्यायः ।
 
२५९
 
</ignore>
<p>
तर्हि तस्य ते परमेश्वरस्य, भूतप्ग्रामम् इमं विषमं विद-

धतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां संबन्धः स्यादिति, इदम्
 

आह भगवान् —
 
</p>
<verse>
न च मां तानि कर्माणि निबध्नन्ति धनंजय ।

उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
 
</verse>
<p>
न च माम् ईश्वरं तानि भूतग्रामस्य
 
विषमसर्गनिमित्तानि

कर्माणि निबध्नन्ति धनंजय । तत्र कर्मणां असंबन्धित्वे

कारणमाह— उदासीनवत् आसीनं यथा उदासीनः उपे-

क्षकः कश्चित् तद्वत् आसीनम्, आत्मनः अविक्रियत्वात्,

असक्तं फलासङ्गरहितम्, अभिमानवर्जितम् ' अहं करोमि '

इति तेषु कर्मसु । अतः अन्यस्यापि कर्तृत्वाभिमानाभावः

फलासङ्गाभावश्च असंबन्धकारणम्, अन्यथा कर्मभिः बध्यते

मूढः कोशकारवत् इत्यभिप्राय:यः
 
</p>
<p>
तत्र ' भूतप्ग्राममिमं विसृजामि' ' उदासीनवदासीनम् '

इति च विरुद्धम् उच्यते इति तत्परिहारार्थम् आह-
 
"
 
--</p>
<verse>
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।

हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
 
</verse>
</page>