2026-05-05 04:07:49 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२५८
श्रीमद्भगवद्गीताभाष्ये
</ignore>

आकाशवत् सर्वगते मयि असंश्लेषेणैव स्थितानि इत्येवम् उप-
धारय विजानीहि ॥

एवं वायुः आकाशे इव मयि स्थितानि सर्वभूतानि स्थि-
तिकाले ; तानि—

<verse>सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्।
॥<fix> ७ ॥</fix></verse>

सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम् अपरां
निकृष्टां यान्ति मामिकां मदीयां कल्पक्षये प्रलयकाले । पुनः
भूयः तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पाद-
यामि अहं पूर्ववत् ॥

एवम् अविद्यालक्षणाम् —

<verse>प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
</verse>

प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः
पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायम् इमं वर्तमानं
कृत्स्नं समग्रम् अवशम् अस्वतन्त्रम्, अविद्यादिदोषैः परवशी-
कृतम्, प्रकृतेःवंवशात् स्वभाववशात् ॥
कृतम्,

</page>
<ignore>२५८

आकाशवत् सर्वगते मयि असंश्लेषेणैव स्थितानि इत्येवम् उप-
धारय विजानीहि ॥

एवं वायुः आकाशे इव मयि स्थितानि सर्वभूतानि स्थि-
तिकाले ; तानि—
<verse>सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्

सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम् अपरां
निकृष्टां यान्ति मामिकां मदीयां कल्पक्षये प्रलयकाले । पुनः
भूयः तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पाद-
यामि अहं पूर्ववत् ॥

एवम् अविद्यालक्षणाम् —
<verse>प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥

प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः
पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायम् इमं वर्तमानं
कृत्स्नं समग्रम् अवशम् अस्वतन्त्रम्, अविद्यादिदोषैः परवशी-
कृतम्, प्रकृतेः
कृतम्,
</page>