2026-05-03 04:20:53 by ambuda-bot
This page has not been fully proofread.
२५८
श्रीमद्भगवद्गीताभाष्ये
आकाशवत् सर्वगते मयि असंश्लेषेणैव स्थितानि इत्येवम् उप-
धारय विजानीहि ॥
एवं वायुः आकाशे इव मयि स्थितानि सर्वभूतानि स्थि-
तिकाले ; तानि—
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।
सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम् अपरां
निकृष्टां यान्ति मामिकां मदीयां कल्पक्षये प्रलयकाले । पुनः
भूयः तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पाद-
यामि अहं पूर्ववत् ॥
एवम् अविद्यालक्षणाम् —
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः
पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायम् इमं वर्तमानं
कृत्स्नं समग्रम् अवशम् अस्वतन्त्रम्, अविद्यादिदोषैः परवशी-
प्रकृतेः वंशात् स्वभाववशात् ॥
कृतम्,