Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
नवमोऽध्यायः ।
 
२५७
 
</ignore>
<p>
न च मत्स्थानि भूतानि ब्रह्मादीनि । पश्य मे योगं युक्तिं

घटनं मे मम ऐश्वरम् ईश्वरस्य इमम् ऐश्वरम्, योगम् आत्मनो

याथात्म्यमित्यर्थः । तथा च श्रुतिः असंसर्गित्वात् असङ्गतां

दर्शयति – 'असङ्गो न हि सज्जते' इति । इदं च आश्व-

र्यम् अन्यत् पश्य — भूतभृत् असङ्गोऽपि सन् भूतानि

बिभर्ति ; न च भूतस्थ:थः, यथोक्तेन न्यायेन दर्शितत्वात् भूत-

स्थत्वानुपपत्तेः । कथं पुनरुच्यते ' असौ मम आत्मा' इति ?

विभज्य देहादिसङ्घातं तस्मिन् अहंकारम् अध्यारोप्य लोक-

बुद्धिम् अनुसरन् व्यपदिशति ' मम आत्मा' इति, न पुनः

आत्मन: आत्मा अन्यः इति लोकवत् अजानन् । तथा

भूतभावनः भूतानि भावयति उत्पादयति वर्धयतीतिंति वा भूत-
 

भावनः ॥
 
</p>
<p>
यथोक्तेन श्लोकद्वयेन उक्तम् अर्थे दृष्टान्तेन उपपादयन्

आह—
 
</p>
<verse>
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥
 
<fix> ६ ॥</fix></verse>
<p merge-next="true">
यथा लोके आकाशस्थितः आकाशे स्थितः नित्यं सदा

वायुः सर्वत्र गच्छतीति सर्वत्रगः महान् परिमाणतः, तथा
 
</p>
<ignore>
S. B. 17
 
</ignore>
</page>