Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२५६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
स्तुत्या अर्जुनमभिमुखीकृत्य आह—
 
</p>
<verse>
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥
 
<fix> ४ ॥</fix></verse>
<p>
मया मम यः परो भावः तेन ततं व्याप्तं सर्वम् इदं

जगत् अव्यक्तमूर्तिना न व्यक्ता मूर्तिः स्वरूपं यस्य मम

सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणागोचर-

स्वरूपेण इत्यर्थः । तस्मिन् मयि अव्यक्तमूर्ती स्थितानि

मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि । न हि

निरात्मकं किंचित् भूतं व्यवहाराय अवकल्पते । अतः

मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि, अतः मयि

स्थितानि इति उच्यन्ते । तेषां भूतानाम् अहमेव आत्मा

इत्यतः तेषु स्थितः इति मूढबुद्धीनां अवभासते ; अतः

ब्रवीमि— न च अहं तेषु भूतेषु अवस्थितः, मूर्तवत् संश्ले-

षाभावेन आकाशस्यापि अन्तरतमो हि अहम् । न हि असं-

सर्गि वस्तु क्वचित् आधेयभावेन अवस्थितं भवति ॥
 

अत एव असंसर्गित्वात् मम --
 
-</p>
<verse>
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥
 
</verse>
</page>