2026-05-03 04:20:52 by ambuda-bot
This page has not been fully proofread.
नवमोऽध्यायः ।
२५५
विरोधि, किंतु धर्म्य धर्मादनपेतम् । एवमपि, स्याद्दुःखसंपाद्य-
मित्यत आह— सुसुखं कर्तुम्, यथा रत्नविवेकविज्ञानम् ।
तत्र अल्पायासानामन्येषां कर्मणां सुखसंपाद्यानाम् अल्पफ-
लत्वं दुष्कराणां च महाफलत्वं दृष्टमिति, इदं तु सुखसंपा-
द्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आह— अव्ययम्
इति । न अस्य फलत: कर्मवत् व्ययः अस्तीति अव्ययम् ।
अतः श्रद्धेयम् आत्मज्ञानम् ॥
ये पुनः-
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ।
।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥३॥
अश्रद्दधानाः श्रद्धाविरहिता: आत्मज्ञानस्य धर्मस्य अस्य
स्वरूपे तत्फले च नास्तिकाः पापकारिणः, असुराणाम् उ-
पनिषदं देहमात्रात्मदर्शनमेव प्रतिपन्नाः असुतृपः पापा: पुरु-
षा: अश्रद्दधानाः, परंतप, अप्राप्य मां परमेश्वरम् मत्प्राप्तौ
नैव आशङ्का इति मत्प्राप्तिमार्गभेदभक्तिमात्रमपि अप्राप्य
इत्यर्थः । निवर्तन्ते निश्चयेन वर्तन्ते ; क ? —— मृत्युसंसार-
वर्त्मनि मृत्युयुक्तः संसारः मृत्युसंसारः तस्य वर्त्म नरक-
तिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्ते इत्यर्थः ॥