2026-05-05 02:20:30 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२५४
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>र्धारणार्थः । इदमेव तु सम्यग्ज्ञानं साक्षात् मोक्षप्राप्तिसाध-
नम्'‘ वासुदेवः सर्वमिति' '’ ‘आत्मैवेदं सर्वम्' '’ ‘एकमेवाद्वि-
तीयम्'’ इत्यादिश्रुतिस्मृतिभ्यः ; नान्यत्, '‘अथ ते येऽन्य-
थातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति'’ इत्यादि-
श्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयि-
ष्यामि अनसूयवे असूयारहिताय । किं तत् ? ज्ञानम् । किं-
विशिष्टम् ? विज्ञानसहितम् अनुभवयुक्तम्, यत् ज्ञात्वा प्राप्य
मोक्ष्यसे अशुभात् संसारबन्धनात् ॥
</p>
<p>तच्च-
—</p>
<verse>राजविद्याराजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
</verse>
<p merge-next="true">राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात्;
दीप्यते
हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राज-
गुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावना-
नां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम् । अनेकजन्मसहस्रसं-
चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति
इत्यतः किं तस्य पावनत्वं वक्तव्यम् । किंच — प्रत्यक्षावगमं
प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम् ।
अनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टम्, न तथा आत्मज्ञानं धर्म-
</p>
</page>
<ignore>२५४
<p>र्धारणार्थः । इदमेव तु सम्यग्ज्ञानं साक्षात् मोक्षप्राप्तिसाध-
नम्
तीयम्
थातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति
श्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयि-
ष्यामि अनसूयवे असूयारहिताय । किं तत् ? ज्ञानम् । किं-
विशिष्टम् ? विज्ञानसहितम् अनुभवयुक्तम्, यत् ज्ञात्वा प्राप्य
मोक्ष्यसे अशुभात् संसारबन्धनात् ॥
<p>तच्च