Proofing

This page has been fully proofread once and needs a second look.

<page>
<heading>
नवमोऽध्यायः ॥
 
</heading>
<p>
अष्टमे नाडीद्वारेण धारणायोगः सगुणः
 

उक्त:तः । तस्य च फलम् अग्न्यर्चिरादि-

क्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेव

अनावृत्तिरूपं निर्दिष्टम् । तत्र 'अनेनै-

व प्रकारेण मोक्षप्राप्तिफलम् अधिग-

म्यते, न अन्यथा' इति तदाशङ्काव्या-
 

विवर्तयिषया श्रीभगवान् उवाच-
 
—</p>
<verse>
श्रीभगवानुवाच-
 

इदं तु ते गुह्यतमं
 

प्रवक्ष्याम्यनसूयवे ।

ज्ञानं विज्ञानसहितं
 

यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥
 
</verse>
<p merge-next="true">
इदं ब्रह्मज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु,

तत् बुद्धौ संनिधीकृत्य इदम् इत्याह । तु-शब्दो विशेषनि-
 
</p>
</page>