2026-05-05 03:57:37 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२५०
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<verse>अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
</verse>
<p>इति श्रीमहाभारते शतसाहस्रर्यां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे तारकब्रह्मयोगो नाम
अष्टमोऽध्यायः ॥
वेदेषु सम्यगधीतेषु यज्ञेषु च साद्गुण्येन अनुष्ठितेषु तपःसु
च सुतप्तेषु दानेषु च सम्यग्दत्तेषु, एतेषु यत् पुण्यफलं प्रदिष्टं
शास्त्रेण, अत्येति अतीत्य गच्छति तत् सर्व फलजातम् ; इदं
विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तम् अर्थ सम्यक् अवधार्य
अनुष्ठाय योगी, परम् उत्कृष्टम् ऐश्वरं स्थानम् उपैति च
प्रतिपद्यते आद्यम् आदौ भवम्, कारणं ब्रह्म इत्यर्थः ॥
</p>
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
अष्टमोऽध्यायः ॥
</trailer>
</page>
<ignore>२५०
<verse>अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
<p>इति श्रीमहाभारते शतसाहस्