Proofing

This page has not been fully proofread.

अष्टमोऽध्यायः ।
 
२.४९
 
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥
 
शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे, ज्ञानप्रकाशकत्वात्
शुक्ला, तदभावात् कृष्णा ; एते शुकुकृष्णे हि गती जगत:
इति अधिकृतानां ज्ञानकर्मणोः, न जगतः सर्वस्यैव एते
गती संभवत: ; शाश्वते नित्ये, संसारस्य नित्यत्वात्, मते
अभिप्रेते । तत्र एकया शुक्लया याति अनावृत्तिम्, अन्यया
इतरया आवर्तते पुनः भूयः ॥
 
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
 
:
 
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥२७॥
 
न एते यथोक्ते सृती मार्गों पार्थ जानन् संसाराय एका,
अन्या मोक्षाय इति, योगी न मुह्यति कश्चन कश्चिदपि ।
तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भव अर्जुन ॥
 
शृणु तस्य योगस्य माहात्म्यम् —
 
वेदेषु यज्ञेषु तपःसु चैव
 
दानेषु यत्पुण्यफलं प्रदिष्टम् ।