Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२४८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
श्रुते एव देवते । भूयसा तु निर्देशो 'यत्र काले ' '’ ‘ तं कालम् '

इति आम्रवणवत् । तथा अहः देवता अहरभिमानिनी;

शुकःक्लः शुक्लपक्षदेवता ; षण्मासा उत्तरायणम्, तत्रापि देवतैव

मार्गभूता इति स्थितः अन्यत्र अयं न्याय:यः । तत्र तस्मिन्

मार्गे प्रयाताः मृताः गच्छन्ति ब्रह्म ब्रह्मविदो ब्रह्मोपासका:
काः
ब्रह्मोपासनपरा जना: । 'नाः । ‘ क्रमेण' इति वाक्यशेषः । न हि

सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिः आगतिर्वा क्वचित्
'

अस्ति, 'न तस्य प्राणा उत्क्रामन्ति' इति श्रुतेः । ब्रह्मसंली-

त्प्राणा एव ते ब्रह्ममया ब्रह्मभूता एव ते ।
 
</p>
<verse>
धूमो रात्रिस्तथा कृष्णः

षण्मासा दक्षिणायनम् ।

तत्र चान्द्रमसं ज्योति-
 

योगी प्राप्य निवर्तते ॥ २५ ॥
 
</verse>
<p>
धूमो रात्रिः धूमाभिमानिनी राज्यभिमानिनी च देवता ।

तथा कृष्णः कृष्णपक्षदेवता । षण्मासा दक्षिणायनम् इति च

पूर्ववत् देवतैव । तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम्

इष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयात् इह पुनः

निवर्तते ॥
 
</p>
</page>