2026-05-05 04:08:47 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>अष्टमोऽध्यायः ।
२४७
</ignore>
<p>प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमु-
क्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इति 'यत्र
काले' इत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते, आवृत्तिमा-
र्गोपन्यासः इतरमार्गस्तुत्यर्थ:-
-
थः ---</p>
<verse>यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ।
॥<fix> २३ ॥</fix></verse>
<p>यत्र काले प्रयाताः इति व्यवहितेन संबन्धः । यत्र य-
स्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां
चैव । योगिनः इति योगिनः कर्मिणश्च उच्यन्ते, कर्मिण-
स्तु गुणतः — ' कर्मयोगेन योगिनाम्' इति विशेषणात् —
योगिनः । यत्र काले प्रयाताः मृताः योगिनः अनावृत्ति
तिं
यान्ति, यत्र काले च प्रयाताः आवृत्तिं यान्ति, तं कालं
वक्ष्यामि भरतर्षभ ॥
</p>
<p>तं कालमाह-
--</p>
<verse>अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥
<fix> २४ ॥</fix></verse>
<p merge-next="true">अग्निः कालाभिमानिनी देवता । तथा ज्योतिरपि
देवतैव कालाभिमानिनी । अथवा, अग्निज्योतिषी यथा-
</p>
</page>
<ignore>अष्टमोऽध्यायः ।
<p>प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमु-
क्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इति 'यत्र
काले' इत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते, आवृत्तिमा-
र्गोपन्यासः इतरमार्गस्तुत्यर्
-
<verse>यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ
<p>यत्र काले प्रयाताः इति व्यवहितेन संबन्धः । यत्र य-
स्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां
चैव । योगिनः इति योगिनः कर्मिणश्च उच्यन्ते, कर्मिण-
स्तु गुणतः — ' कर्मयोगेन योगिनाम्' इति विशेषणात् —
योगिनः । यत्र काले प्रयाताः मृताः योगिनः अनावृत्