Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२४६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
क्षण:णः भावः इत्यभिप्रायः । सनातनः चिरन्तनः यः सः

भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति ॥
</p>
<verse>
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥
 
</verse>
<p>
योऽसौ अव्यक्तः अक्षरः इत्युक्तः, तमेव अक्षरसंज्ञकम्

अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम् । यं परं भावं

प्राप्य गत्वा न निवर्तन्ते संसाराय, तत् धाम स्थानं परमं

प्रकृष्टं मम, विष्णोः परमं पदमित्यर्थः ॥
 
</p>
<p>
तल्लब्धेः उपायः उच्यते-
 
—</p>
<verse>
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।

यस्यान्तःस्थानि भूतानि येन सर्वसिमिदं ततम् ॥
-
२२ ॥</verse>
<p>
पुरुष:षः पुरि शयनात् पूर्णत्वाद्वा, स परः पार्थ, परः नि-

रतिशयः, यस्मात् पुरुषात् न परं किंचित् । सः भक्त्या

लभ्यस्तु ज्ञानलक्षणया अनन्यया आत्मविषयया । यस्य पुरु-

षस्यः अन्तःस्थानि मध्यस्थानि भूतानि कार्यभूतानि ; कार्य

हि कारणस्य अन्तर्वर्ति भवति । येन पुरुषेण <error>सर्वेवं</error><fix>सर्वम्</fix> इदं जगत्

ततं व्याप्तम् आकाशेनेव घटादि ॥
 
</p>
</page>