Proofing

This page has not been fully proofread.

२४६
 
श्रीमद्भगवद्गीताभाष्ये
 
क्षण: भावः इत्यभिप्रायः । सनातनः चिरन्तनः यः सः
भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति ॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥
 
योऽसौ अव्यक्तः अक्षरः इत्युक्तः, तमेव अक्षरसंज्ञकम्
अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम् । यं परं भावं
प्राप्य गत्वा न निवर्तन्ते संसाराय, तत् धाम स्थानं परमं
प्रकृष्टं मम, विष्णोः परमं पदमित्यर्थः ॥
 
तल्लब्धेः उपायः उच्यते-
 
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वसिदं ततम् ॥
- पुरुष: पुरि शयनात् पूर्णत्वाद्वा, स परः पार्थ, परः नि-
रतिशयः, यस्मात् पुरुषात् न परं किंचित् । सः भक्त्या
लभ्यस्तु ज्ञानलक्षणया अनन्यया आत्मविषयया । यस्य पुरु-
षस्यः अन्तःस्थानि मध्यस्थानि भूतानि कार्यभूतानि ; कार्य
हि कारणस्य अन्तर्वर्ति भवति । येन पुरुषेण सर्वे इदं जगत्
ततं व्याप्तम् आकाशेनेव घटादि ॥